HomeVenkateshaश्री वेङ्कटेश मङ्गलाशासनम् - Sri Venkatesa Mangalasasanam Lyrics in Hindi श्री वेङ्कटेश मङ्गलाशासनम् - Sri Venkatesa Mangalasasanam Lyrics in Hindi Kantharaj Kabali 0 Sri Venkatesa Mangalasasanam Lyrics in Hindi श्रियः कान्ताय कळ्याण निधये निधयेऽर्थिनाम् । श्रीवेङ्कट निवासाय श्रीणिवासाय मङ्गळम् ‖ १ ‖ लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे । चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गळम् ‖ २ ‖ श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गळाभरणाङ्घ्रये । मङ्गळानां निवासाय श्रीणिवासाय मङ्गळम् ‖ ३ ‖ सर्वावयव सौन्दर्य सम्पदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गळम् ‖ ४ ‖ नित्याय निरवद्याय सत्यानन्द चिदात्मने । सर्वान्तरात्मने शीमद्वेङ्कटेशाय मङ्गळम् ‖ ५ ‖ स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे। सुलभाय सुशीलाय वेङ्कटेशाय मङ्गळम् ‖ ६ ‖ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गळम् ‖ ७ ‖ आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् । अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गळम् ‖ ८ ‖ प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गळम् ‖ ९ ‖ दयाऽमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः । अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गळम् ‖ १० ‖ स्रग्भूषाम्बर हेतीनां सुषमाऽऽवहमूर्तये । सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गळम् ‖ ११ ‖ श्रीवैकुण्ठ विरक्ताय स्वामि पुश्ह्करिणीतटे । रमया रममाणाय वेङ्कटेशाय मङ्गळम् ‖ १२ ‖ श्रीमत्सुन्दरजा मातृमुनि मानसवासिने । सर्वलोक निवासाय श्रीणिवासाय मङ्गळम् ‖ १३ ‖ मङ्गळा शासनपरैर्मदाचार्य पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गळम् ‖ १४ ‖ श्री पद्मावती समेत श्री श्रीणिवासपरब्रह्मणे नमः Tags Govinda Hindi Venkatesha Facebook Twitter Whatsapp Share to other apps श्री वेङ्कटेश मङ्गलाशासनम् - Sri Venkatesa Mangalasasanam Lyrics in Hindi Govinda Newer Older