नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥
नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिनि ज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥२॥
अनाथस्य दीनस्य तृष्णातुरस्य
क्षुधार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥३॥
अरण्ये रणे दारुणे शुत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेका गतिर्देवि निस्तार हेतुर
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥४॥
अपारे महदुस्तरेऽत्यन्तघोरे
विपत् सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥५॥
नमश्चण्डिके चण्डोर्दण्डलीला
समुत्खण्डिता खण्डिताशेषशत्रो ।
त्वमेका गतिर्विघ्नसन्दोहहर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥६॥
त्वमेवाघ भावाधृता सत्यवादि-
न्यमेयाजिता क्रोधना क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥७॥
नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघस्वरूपे ।
विभूतिः शुची कालरात्रिः सती त्वम्
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥८॥
शरणमसि सुराणां सिद्ध विद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानां ।
नृपतिगृहगतानां व्याधिभिः पीडितानाम्
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥९॥
इदम् स्तोत्रम् मया प्रोक्तमापदुद्धारहेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यम् वा पठनाद्घोर सङ्कटात ॥१०॥
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ।
सर्वम वा श्लोकमेकम वा यः पठेत भक्तिमान सदा ॥११॥
स सर्वं दुष्कृतम् त्यक्त्वा प्राप्नोति परमं पदम् ।
पठनादस्य देवेशि किं न सिद्ध्यति भूतले ॥१२॥
स्तवराजमिदम देवि सन्क्षेपात कथितम मया ॥
॥इति सिद्धेश्वरी तन्त्रे हरगौरीसंवादे श्री दुर्गा आपदुद्धारस्तोत्रं समाप्तम् ॥
There are a lot of spelling mistakes and even a whole paragraph is is vanished too..... These mistakes are misleading the readers....
ReplyDeletePlease correct them.... And if you don't have the real copy tell me I'll provide it...